Sanskrit

चन्द्र, सोम – संस्कृतम् – Word of the Day (2017-12-03)

चन्द्र

चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति । सूर्यस्य अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या । भूमिः स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । अन्ये ग्रहाः इव चन्द्रेण अपि स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं २७ दिनानि ७ घण्टाः ४३ निमेषाः स्वीक्रियन्ते । तन्नाम २७.३२१७ दिनानि स्वीकरोति । अयम् एव नक्षत्रमासः इति उच्यते । भूमौ स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते । एषः कालः २७.३२१७ सौरदिनसमानः भवति ।

सामान्यतः चान्द्रमानः नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः । अयं कालः नक्षत्रमासात् अधिका वर्तते । चन्द्रस्य परिभ्रमणावसरे सूर्यः अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते ।

भूमेः गुरुत्वाकर्षणशक्तिम् अपि यदि परिगणयेम तर्हि चन्द्रस्य कक्षा दीर्घवृत्ताकारकः भवति । अन्येषां ग्रहाणाम् उपरि रवेः आकर्षणकारणतः अस्यां कक्षायां लघु परिवर्तनं दृश्यते । भूमितः चन्द्रस्य दूरं भवति २,३८,००० मैल्-परिमितम् । इदमन्तरं २२,१०,४६० तः २,५२,७०० मैल्-परिमितं विस्तृता भवति । भूमिं परितः भ्रमन् चन्द्रः एकस्मात् समीपप्रदेशात् प्रस्थाय तत्रैव प्रत्यागमनाय यं समयं स्वीकरोति सः कालः “एनोमलिस्टिक् मासः” (anomalistic month) इति कथ्यते । अयं कालः २७.५५४६ सौरदिनसमं भवति । चन्द्रस्य कक्षा भूचक्रात् अधिकतरं नाम ५ डिग्रि १५ कोणे नत्वा भ्रमति ।

Leave a Reply

Your email address will not be published. Required fields are marked *